Search
Close this search box.
Search
Close this search box.

देवकृत लक्ष्मी स्तोत्र/Devkrit Laxmi Stotra

👇खबर सुनने के लिए प्ले बटन दबाएं

क्षमस्व भगवंत्यव क्षमाशीले परात्परे |

शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते |1|

उपमे सर्वसाध्वीनां देवीनां देवपूजिते |

त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् |2|

सर्वसंपत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी |

रासेश्वर्यधि देवी त्वं त्वत्कलाः सर्वयोषितः |3|

कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका |

स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले |4|

वैकुंठे च महालक्ष्मीर्देवदेवी सरस्वती |

गंगा च तुलसी त्वं च सावित्री ब्रह्मालोकतः |5|

कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् |

रासे रासेश्वरी त्वं च वृंदावन वने- वने |6|

कृष्णा प्रिया त्वं भांडीरे चंद्रा चंदनकानने |

विरजा चंपकवने शतशृंगे च सुंदरी |7|

पद्मावती पद्मवने मालती मालतीवने |

कुंददंती कुंदवने सुशीला केतकीवने |8|

कदंबमाला त्वं देवी कदंबकाननेऽपि च |

राजलक्ष्मी राजगेहे गृहलक्ष्मीगृहे गृहे |9|

इत्युक्त्वा देवताः सर्वा मुनयो मनवस्तथा |

रूरूदुर्नम्रवदनाः शुष्ककंठोष्ठ तालुकाः |10|

इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् |

यः पठेत्प्रातरूत्थाय स वै सर्वै लभेद् ध्रुवम् |11|

अभार्यो लभते भार्यां विनीतां सुसुतां सतीम् |

सुशीलां सुंदरीं रम्यामतिसुप्रियवादिनीम् |12|

पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् |

अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम् |13

परमैश्वर्ययुक्तं च विद्यावंतं यशस्विनम् |

भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् |14|

हतबंधुर्लभेद्बंधुं धनभ्रष्टो धनं लभेत् |

कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेद् ध्रुवम् |15|

सर्वमंगलदं स्तोत्रं शोकसंतापनाशनम् |

हर्षानंदकरं शश्वद्धर्म मोक्षसुहृत्प्रदम् |16|

|| इति श्रीदेवकृत लक्ष्मीस्तोत्रं संपूर्णम् ||

Leave a Comment

UPSE Coaching
What does "money" mean to you?
  • Add your answer